|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.274. अध्यायः 274
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति फलानिच्छया यज्ञादेः कर्तव्यताप्रतिपादकगोकपिलसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-274-0x(6317)(76228)
अविरोधेन भूतानां त्यागः षाङ्गुण्यकारकः।
यः स्यादुमयभाग्धर्मस्तन्मे ब्रूहि पितामह॥ 12-274-1(76229)
गार्हस्थ्यस्य च धर्मस्य योगधर्मस्य चोभयोः।
अदूरसंप्रस्थितयोः किंस्विच्छ्रेयः पितामह॥ 12-274-2(76230)
भीष्म उवाच। 12-274-3x(6318)
उभौ धर्मौ महाभागावृभौ परमदुश्चरौ।
उभौ नहाफलौ तौ तु सद्भिराचरितावुभौ॥ 12-274-3(76231)
अव ते वर्तयिष्यासि प्रामाण्यमुभयोस्तयोः।
शुणुष्वैकमताः पार्थ च्छिन्नधर्मार्थसंशयम्॥ 12-274-4(76232)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
कपिलस्य गोश्च संवादं तन्निबोध युधिष्ठिर॥ 12-274-5(76233)
आम्नायमनुपश्यन्हि पुराणं शाश्वतं ध्रुवम्।
नहुषः पूर्वमालेभे त्वष्टुर्गामिति नः श्रुतम्॥ 12-274-6(76234)
तां नियुक्तामदीनात्मा सत्वस्थः संयमे रतः।
ज्ञानवान्नियताहारो ददर्श कपिलस्तथा॥ 12-274-7(76235)
स बुद्धिमुत्तमां प्राप्तो नैष्ठिकीमकुतोभयाम्।
स्वरेण शिथिलां सत्यां वेदा 3 इत्यब्रवीत्सकृत्॥ 12-274-8(76236)
तां गामृषिः स्यूमरश्मिः प्रविश्य यतिमब्रवीत्।
हंहो वेदा 3 यदि मता धर्माः केनापरे मताः॥ 12-274-9(76237)
तपस्विनो धृतिमतः श्रुतिविज्ञानचक्षुषः।
सर्वमार्षं हि मन्यन्ते व्याहृतं विदितात्मनः॥ 12-274-10(76238)
तस्यैवं गततृष्णस्य विज्वरस्य निराशिषः।
का विवक्षाऽस्ति वेदेषु निरारम्भस्य सर्वतः॥ 12-274-11(76239)
कपिल उवाच। 12-274-12x(6319)
नाहं वेदान्विनिन्दामि न विवक्ष्यामि कर्हिचित्।
पृथगाश्रमिणां कर्माण्येकार्थानीति नः श्रुतम्॥ 12-274-12(76240)
गच्छत्येव परित्यागी वानप्रस्थश्च गच्छति।
गृहस्थो ब्रह्मचारी च उभौ तावपि गच्छतः॥ 12-274-13(76241)
देवयाना हि पन्थानश्चत्वारः शाश्वता मताः।
नैषां ज्यायः कनीयस्त्वं फलेषूक्तं बलाबलम्॥ 12-274-14(76242)
एवं विदित्वा सर्वार्थानारभेतेति वैदिकम्।
नारभेतेति चान्यत्र नैष्ठिकी श्रूयते श्रुतिः॥ 12-274-15(76243)
अनारम्भे ह्यदोषः स्यादारम्भे दोष उत्तमः।
एवं स्थितस्य शास्त्रस्य दुर्विज्ञेयं बलाबलम्॥ 12-274-16(76244)
यदत्र किंचित्प्रत्यक्षमहिंसायाः परं मतम्।
ऋते त्वागमशास्त्रेभ्यो ब्रूहि तद्यदि पश्यसि॥ 12-274-17(76245)
स्यूमरश्मिरुवाच। 12-274-18x(6320)
स्वर्गकामो यजेतेति सततं श्रूयते श्रुतिः।
फलं प्रकल्प्य पूर्वं हि ततो यज्ञः प्रतायते॥ 12-274-18(76246)
अजश्चाश्वश्च मेषश्च र्गौश्च पक्षिगणाश्च ये।
ग्राम्यारण्याश्चौषधयः प्राणस्यान्नमिति श्रुतिः॥ 12-274-19(76247)
तथैवान्नं ह्यहरहः सायंप्रातर्निरूप्यते।
पशवश्चाथ धान्यं च यज्ञस्याङ्गमिति श्रुतिः॥ 12-274-20(76248)
एतानि सह यज्ञेन प्रजापतिरकल्पयत्।
तेन प्रजापतिर्देवान्यज्ञेनायजत प्रभुः॥ 12-274-21(76249)
तदन्योन्यवराः सर्वे प्राणिनः सप्तसप्त च॥ 12-274-22(76250)
`गौरजो मनुजः श्वा वा अश्वाश्वतरगर्दभाः।
एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः॥ 12-274-23(76251)
सिंहा व्याघ्रा वराहाश्च महिषा वारणास्तथा।
हरिणः शललाश्चैव सप्तारण्यास्तथा स्मृताः॥' 12-274-24(76252)
यज्ञेषूपाकृतं विश्वं प्राहुरुत्तमसंज्ञितम्॥ 12-274-25(76253)
एतच्चैवाभ्यनुज्ञातं पूर्वैः पूर्वतरैस्तथा।
को जातु न विचिन्वीत विद्वान्स्वां शक्तिमात्मनः॥ 12-274-26(76254)
पशवश्च मनुष्याश्च द्रुमाश्चौषधिभिः सह।
स्वर्गमेवाभिकाङ्क्षन्ते न च स्वर्गोस्ति ते मखात्॥ 12-274-27(76255)
ओषध्यः पशवो वृक्षा वीरुदाज्यं पयो दधि।
हविर्भूमिर्दिशः श्रद्धा कालश्चैतानि द्वादश॥ 12-274-28(76256)
ऋचो यजूंषि सामानि ऋत्विजश्चापि षोडश।
अग्निर्ज्ञेयो गृहपतिः स सप्तदश उच्यते॥ 12-274-29(76257)
अङ्गान्येतानि यज्ञस्य यज्ञो मूलमिति श्रुतिः।
आज्येन पयसा दध्ना शकृताऽऽमिक्षया त्वचा॥ 12-274-30(76258)
बालैः शृङ्गेण पादेन संभवत्येव गौर्मखम्।
एवं प्रत्यकेशः सर्वं यद्यदस्य विधीयते॥ 12-274-31(76259)
यज्ञं वहन्ति संभूय सहत्विंग्भिः सदक्षिणैः।
संहृत्यैतानि सर्वाणि यज्ञं निर्वर्तयन्त्युत॥ 12-274-32(76260)
यज्ञार्थानि हि सृष्टानि यथार्था श्रूयते श्रुतिः।
एवं पूर्वतराः पूर्वे प्रवृत्ताश्चैव मानवाः॥ 12-274-33(76261)
न हिनस्ति नारभते नाभिद्रुह्यति किंचन।
यज्ञैर्यष्टव्यमित्येव यो यजत्यफलेप्सया॥ 12-274-34(76262)
यज्ञाङ्गान्यपि चैतानि यथोक्तान्यपि सर्वशः।
विधिना विधियुक्तानि तारयन्ति परस्परम्॥ 12-274-35(76263)
आम्नायमार्षं पश्यामि यस्मिन्वेदाः प्रतिष्ठिताः।
तं विद्वांसोऽनुपश्यन्ति ब्राह्मणस्यानुदर्शनात्॥ 12-274-36(76264)
ब्राह्मणप्रभवो यज्ञो ब्राह्मणार्पण एव च।
अनुयज्ञं जगत्सर्वं यज्ञश्चानुजगत्सदा॥ 12-274-37(76265)
ओमिति ब्रह्मणो योनिर्नमः स्वाहा स्वधा वषट्।
यस्यैतानि प्रयुज्यन्ते यथाशक्ति कृतान्यपि॥ 12-274-38(76266)
न तस्य त्रिषु लोकेषु परलोकभयं विदुः।
इति वेदा वदन्तीह सिद्धाश्च परमर्षयः॥ 12-274-39(76267)
ऋचो यजूंहि सामानि स्तोत्राश्च विधिचोदिताः।
यस्मिन्नेतानि सर्वाणि भवन्तीह स वै द्विजः॥ 12-274-40(76268)
अग्न्याधेये यद्भवति यच्च सोमे सुते द्विज।
यच्चेतरैर्महायज्ञैर्वेद तद्भगवांस्तथा॥ 12-274-41(76269)
तस्माद्ब्रह्मन्यजेच्चैव याजयेच्चाविचारयन्।
यजतो यज्ञविधिना प्रेत्य स्वर्गफलं महत्॥ 12-274-42(76270)
नायं लोकोस्त्ययज्ञानां परश्चेति विनिश्चयः।
वेदवादविदश्चैव प्रमाणमुभयं तदा॥ ॥ 12-274-43(76271)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुःसप्तत्यधिकद्विशततमोऽध्यायः॥ 274॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-274-1 योगः पाङ्गुण्यकारित इति ड. पाठः॥ 12-274-3 उभौ गार्हस्थ्ययोगधर्मौ॥ 12-274-6 त्वष्टुस्त्वष्ट्रे गृहागताय मधुपर्के गामालेभे। यष्टुं गामितीति ट. थ. पाठः॥ 12-274-7 नियुक्तां हन्तुं पुरस्कृतां दृष्ट्वा वेदा इत्यव्रवीदिति द्वयोः संबन्धः॥ 12-274-8 वेदा इति गर्हायां प्लुतिः॥ 12-274-9 प्रविश्य योगबलेनेत्यर्थः। यतिं कपिलमुनिम्। हंहो इति विस्मये। वेदा यदि मताः गर्हितत्वेन संमताः। अत्रापि गर्हार्थायाः प्लुतेरनुवादः। अपरे हिंसाशून्याधर्माः केन मताः। प्रामाण्यमप्रामाण्यं वा कर्मज्ञानकाण्डयोस्तुल्यमतो नान्यतरन्निन्देत्प्रशंसेद्वेति भावः॥ 12-274-10 विलक्षणपुरुषस्य भाषितं सत्यमिति जना मन्यन्ते। किं विदितात्मनः नित्यज्ञानवतः परमेश्वरस्य व्याहृतम्॥ 12-274-12 विवक्ष्यामि विषमान् वक्ष्यामि॥ 12-274-13 एकार्थत्वमाह गच्छत्येवेति। परित्यागी संन्यासी। गच्छत्येव परं पदमिति शेषः॥ 12-274-14 देवयानाः देवमात्मानं यान्त्येभिरिति तथाभूताश्चत्वार आश्रमाः॥ 12-274-22 तस्माद्यागपराः सर्वे इति ध. पाठः॥ 12-274-34 नापि दूह्यति किंचनेति ट. ड. पाठः॥ 12-274-39 इति लोका वदन्तीहेति ध. पाठः॥ 12-274-41 यच्च सोमे स्थितं जगत्। इति ड. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|